पर्वते कटिकटीति शब्दो ऽस्ति (जपानदेशीयकथा) カチカチ山(サンスクリット語訳)
अस्ति कस्मिंश्चिद् वृद्धो वृद्धा च। एकस्मिन् दिने वृद्धे वपति, शृगाल आगच्छति। वृद्धो गायति।
एकबीजम् मयोप्तं ह्यः बीजमद्यतनं दशम्।
दशबीजं मयोप्तं चेत् शतबीजं भविष्यति॥ इति।
ततः शृगालः प्रत्यनुगायति।
एकबीजम् त्वयोप्तं ह्यः बीजमद्यतनं दशम्।
किंतु बीजं तथोप्तं चेन्महावायोर्परं कथम्॥ इति।
ततः परं शृगालः सर्वं बीजं प्रोत्खान्य तं खादति। प्रकोपितो वृद्धः तं शृगालं स्वीकृत्य बध्नाति। ततः परं गृहे वृद्धां स वदति तं शृगालं पच्यतामिति। तदनन्तरं वृद्धः स्वकार्यं कर्तुं पुनर्निर्गच्छति।
यदा वृद्धा शृगालस्य पचनस्य कृते ऽभ्युपकरोति, तदा शृगाल आह यतो ऽहं अद्यारभ्य पापं न करोमि, ततो रज्जोः मां मुक्तं कुर्विति। वृद्धा शृगालस्य वचनं सत्यं इति चिन्तयित्वा, रज्जोः तं मुक्तं करोति। ततः परं शृगालो वृद्धां ताडयित्वा प्रधावति। शृगालेण ताडिता वृद्धा म्रियते।
वृद्धा मृतेति ज्ञात्वा वृद्धो दुःखमनुभवति। तत्रैकः शशक आगच्छति। स शशको वृद्धं पृच्छति किमर्थम् भवान् दुःखमनुभवतीति। तन्निमित्तं श्रुत्वा शशको निर्गच्छति। अहं तं कुशृगालं दूरीकरिष्यामीति।
शशकः शृगालं दृष्ट्वा समित्काष्ठान् स्वीकर्तुं तं पर्वतं गच्छाव इत्युदित्वा तं शृगालं नयति। तौ शशकशृगालौ समित्काष्ठान् स्वीकुरुतः। यदा पृष्ठे काष्ठान् धारयन्तौ शशकशृगालौ तं पर्वतं उपगच्छतः, तदा शशको कटिकटीति शिञ्जिताभ्यां अग्निप्रस्तनाभ्यां काष्ठेषु समिन्द्धे। यदा शृगालः पृच्छति इदानीन्तनः कटिकटीति शब्दः किं अस्ति? इति, तदा शशक उत्तरं प्रतिवदति। यतः तत्पर्वतस्य नाम कटिकटि-पर्वत इति अस्ति, ततो ऽत्र कटिकटीति शब्दो ऽस्तीति। अचिरात् परं शृगालस्य काष्ठा अतीव दह्यन्ते। तस्मातुष्णाच्छृगाल आ आ इति विनद्य अस्तंगच्छति।
ततः परमग्निना पृष्ठे व्रणितस्य सुप्तस्य शृगालस्य समीपे शशक आगच्छति। स वदति भवत्कृते भवतः दग्धे पृष्ठे ऽहं औषधं अनज्मीति। एतत् उक्त्वा, शशकः तस्य पृष्ठे लवणं अनक्ति। आ आ इति पुनः शृगालः विनदति। तस्य शृगालस्य श्वस्था प्रदुष्यति ।
किंचिदनन्तरमुल्लाघस्य शृगालस्य समीपे शशक आगच्छति। स मत्स्यबन्धनार्थं गच्छाव इति शृगालं उक्त्वा तं नयति। समुद्रतटे द्वे नौके स्तः। शृगालं महत्तरनौकया संतरति, किंतु शशको ऽल्पतरनौकया सम्तरति। ततः परं शृगालस्य नौका मन्दं मन्दं मज्जनं करोति। यतः शशकस्य नौका काष्ठमय्यस्ति, किंतु शृगालस्य नौका पङ्कमय्यस्ति। उपकुर्विति शृगालः विनदति, किं तु स तस्य नौकया सह समुद्रे मज्जति।
तेनोपायेन शशको वृद्धाकृते शृगालं प्रतिकरोति स्म। इति जपानदेशीया पुराणकथा॥